शिक्षणसन्दर्भे विद्यालयप्रशिक्षुतायाः आवश्यकता

Author: Asit Kumar Jana

DOI Link: https://doi.org/10.70798/Bijmrd/03010038

Abstract(सारांश): विद्यालयप्रशिक्षुतायाः सम्बन्धः क्षेत्रेण सह परियुक्तनाम्नः मुख्यपाठ्यचर्यात्मकक्षेत्रस्य अंशरूपेण वर्तते, अपि च अभिकल्पनयोजनाः, व्यावसायिकक्षमता, अध्यापकप्रभावनीयताः, कौशलेषु कस्यचित् व्यापकसंग्रहस्य विकासं प्रति अग्रेसरं करिष्यति। शिक्षाशास्त्रस्य पाठ्यचर्या अध्येतारः अपि च विद्यालयाः यत्र सततं व्यापकं च मूल्याङ्कनं सम्मिलितं वर्तते। एतेन सह दीर्घीकृतायाः अविच्छिन्नायाः च परियुक्तेः प्रदानमपि भविष्यति, येन वर्षं यावत् प्रतिवेशिषु विद्यालयैः सह सहक्रिया सम्भवा भविष्यति। इमे क्रियाकलापाः प्रथमे वर्षे चतुर्षु सप्ताहेषु आयोक्ष्यन्ते। पाठ्यक्रमस्य अन्तिमवर्षे सक्रियरूपेण शिक्षणे छात्राणां प्रवृत्तिः भविष्यति। इत्येदं स्तरद्वये प्रवृत्तं भविष्यति। अर्थात् उच्चप्राथमिककक्षा (कक्षा VI-VIII) तथा माध्यमिककक्षा (कक्षा IX-X) अथवा उच्चमाध्यमिककक्षा (कक्षा XI-XII) इत्यादीषु कक्षासु इमे कार्यक्रमाः न्यूनातिन्यूनं  सप्ताहान् यावत् माध्यमिकोच्चमाध्यमिककक्षासु भविष्यन्ति। उपरि कथितम् अस्ति यत् द्विवर्षात्मककार्यक्रमे विद्यालयेषु प्रशिक्षुता न्यूनातिन्यूनं 20 सप्ताहानां भविष्यति। (प्रथमवर्षे चतुरः सप्ताहान् यावत्, द्वितीये वर्षे षोडश सप्ताहान् यावत्)। अत्र शिक्षणाभ्यासम् अतिरिच्य एकं सप्ताहं यावत् प्रारम्भिकप्रावस्थायाः अवसरः भविष्यति, यस्मिन् अवधौ छात्राध्यापकः सामान्यकक्षायां नियमिताध्यापकस्य अध्यापनस्य प्रेक्षणं करिष्यति। इदम् अतिरिच्य अभ्यासपाठानां समकक्षीयं प्रेक्षणमपि सम्मिलितं भविष्यति।

Keywords(कीवर्ड): Teacher Education, School Internship, Quality, General Teaching Competence, Teaching practices, B.Ed. etc.

Page No: 294-302