वराहपुराणे वर्णितपौराणिकधर्मानुसारेण भक्तितत्त्वम्, सामाजिकी जीवनचर्चा च

Author: रञ्जित वाग्दी

DOI Link: https://doi.org/10.70798/Bijmrd/03070022

Abstract:

पुराणशब्दस्य व्युत्पत्तिगतार्थः भवति प्राचीनकाहिनी। प्राचीनपुराणेषु प्रदत्तसंज्ञानुसारं पुराणं भवति पुराकालस्य विवरणम्। यद्यपि पुराकाले तथा च अतीतकाले एतादृशी घटना अभूत् तस्मात् एतदर्थं नाम भवति पुराणम्। यतो हि प्राचीनमत्स्यपुराणे समुल्लिखितमस्ति यत् “पुराणस्य कल्पस्य पुराणानि विदुर्वुधाः”1। ‘पुराण’ शब्दः विशेषार्थे व्यवह्रयते। पुराणं भवति विशेषवैशिष्ट्यपूर्णः एकः धर्मग्रन्थः। वराहपुराणे वर्णितं पौराणिकधर्मानुसारं भक्तितत्त्वम् -एष विषयः वैष्णवागमे अतीव महत्वपूर्णः। वराहपुराणे भगवान् विष्णोः वराहावतारस्य माहात्म्यं प्रधानतया वर्ण्यते, तथापि तत्र भक्तेः स्वरूपं, प्रकाराः, श्रेष्ठता च विषदतया निरूपितानि सन्ति। पौराणिकधर्मे भक्तिः केवलं उपासना न, अपितु मोक्षप्रदं महान् साधनमार्गः इति तत्र प्रतिपाद्यते। पुराणशब्दस्यार्थः भवति प्राचीनकथा प्राचीनकाहिनी च। पुराण इत्युक्ते इतिहासमपि अववोध्यते। किन्तु इतिहासं पुराणञ्च सम्पूर्णं भिन्नं भवति। यतो हि इतिहासं भवति अतीतकालस्य घटना। अपरञ्च पुराणं भवति सुदीर्घभूतकालस्य घटना। इतिहासशब्दस्य व्युत्पत्तिगतार्थः इति आस् एवमपि आसीत्।

महर्षिः वेदव्यासः सर्वाणि पुराणानि संस्कृतभाषायां सङ्कलितं कृतवान्। पुराणस्य आभिधानिकार्थः भवति प्राचीनम्। अथर्ववेदे चतुर्णां वेदानां वर्णनमस्ति। ततःपरं पुराणस्य उल्लेखः समुलभ्यते। वेदस्य भाषाशैली किञ्चित् कठीनमस्ति तस्मात् पुराणे कथानुसारं वेदस्य विषयाः सरलभाषया व्याख्यां क्रीयते स्म। पुराणं कस्यचित् व्यक्तेः जीवने परिवर्तनं साधयितुं समर्थः भवति।

Keywords: प्राचीनकाहिनी, पुराकाल, वराहपुराण, वराहावतार, अथर्ववेद.

Page No: 196-203