संस्कृतकथासाहित्यस्य महत्वमम्

Author: Puja Gole

DOI Link: https://doi.org/10.70798/Bijmrd/04020030

Abstract(प्रवन्धसार): समुद्रमिव सुविस्तृतं संस्कृतसाहित्यम्। तस्य आस्वादे स्वर्गास्वादमिव आनन्दं प्राप्नोति।भूखण्डे आनन्दप्राप्तिः अस्य जीवनस्य मूललक्ष्यम् । अस्मिन् साहित्ये विभिन्नाः विभागाः वर्तन्ते। तेषु संस्कृतकथासाहित्यं एकं प्रधानं भागम् ।विभागोऽयं न केवलं संस्कृतसाहित्ये अपि तु संस्कृतेतरे अप्युलभ्यते।भारते संस्कृतकथाकाव्यं आ वालात् सर्वान् जनान् प्रति नीतिशिक्षाप्रदानं कर्तुं शक्यते। संस्कृतसाहित्ये सर्वैः कविभिः स्वग्रन्थे कथायाः वहुधा चर्चा कृता। परन्तु तत्र मतविरोधमपि दृश्यते।मानवाः कल्पनामाश्रित्य कथाः रचयन्ति।वास्तवता अपेक्षया कल्पनाधिका रमणीया। लोककथायाः श्रवणप्रवृत्या कथासाहित्यस्य उत्पत्तिः भवति। जनानां अतृप्तकामनां पूरयितुं कथासाहित्यस्य उत्पन्नः जातः। संस्कृतकथासाहित्यस्य उल्लेखः वैदिक ब्राह्मणेषु उपनिषत्सु च प्राप्यते। रामायणमहाभारतेऽपि सहस्राः कथाः सन्ति। परन्तु केवलं कथाभिः नीत्वा पृथक् रूपे साहित्यं लिख्यते।कथासाहित्यं त्रिधा विभक्तुं शक्यते। यथा –

१.जनानां आधारेण रचिता कथा।

२.पशुविहगाणां आधारेण रचिता कथा।

३.लोककथा।

कथासाहित्यस्य लेखनस्य अन्तराले मूलतः त्रीणि कारणानि आसन्। तानि यथा –

-१.अवकाशजीवनम्२.मनसः मनोरञ्जनम् ३.नीतिशिक्षा।

लघुबालानां नैतिकशिक्षाप्रदानस्य उद्देश्ये विभिन्नैः विद्वद्भिः मानवानां पशुनां वा विषयं नीत्वा भिन्नाः कथाः कथिताः।

कथा हि भारतीय सभ्यतायाः समृद्धिः। तदभावे च साहित्यस्य विनाशो अभवत्। किन्तु तन्न भवेत् अस्मिन् भारते। यतोहि भारते कथायाः भाण्डारः वर्तते। यतोहि मानवाः कथाप्रेम्निनः। कथा न केवलं बालानां कृते अपि तु समाजे सर्वेषां जनानां कृतेऽपि आदरणीयाः। शैशवे माता स्नेहेन बालानां क्रोड़े नीत्वा निद्रायाः कृते कथाः अश्रावयत्। तस्मादेवास्माकं मनसि स्वाभाविकतया कथा श्रवणस्यैकान्तिकी वासना सुप्तरूपेण च जागरिता भवति।तदा गुरूजनाः पक्षिपशुराजस्य काल्पनिककहानी रसं संमिश्र्य अस्माकं समीपे परिवेशयन्ति।गम्भीरविषयस्य बोधयितुं सारल्येनोपस्थापयितुं चास्माभिरुपाख्यानान्यश्रुयन्ते। रामायणमहाभारतस्य अनन्तरं संस्कृतसाहित्ये कथासाहित्यस्य प्रकाशः प्राप्तः। पञ्चतन्त्रवृहत्कथावृहत्त्रयीहितोपदेशादि ग्रन्थानां विरचनस्योद्देश्यम् अल्पमतीबालानां नीतिशिक्षाप्रदानेन वुद्धेर्विकाशसाधनम् । अस्मिन् अवान्तरप्रयोजनाय कथासाहित्यस्य विकाश यथायथरूपेण आरभ्यते।मनोविनोदनमेव कथायाः मूलमुद्देश्यम्।भारते प्रायशः सर्वस्मिन् साहित्ये प्राचुर्येण कथाप्रपञ्चमस्ति।

Keywords(मुख्यशब्दा): संस्कृतभाषा, संस्कृतकथासाहित्य, कथा, आख्यायिका,आख्यानः,संस्कृतलोककथा, कल्पना, सरसवस्तु,काहिनी, सरलसंस्कृतकथा, शैक्षिकतत्त्वानि, भारतीयसंस्कृतिः, नीतिकथायाः, पञ्चतन्त्रम्, हितोपदेशः, वृहत्कथादि।

Page No: 233-246