बालापराधस्य सामाजिक – पर्यावरणीयनिमित्तानि – पाश्चात्यमनोवैज्ञानिकदृष्ट्या

Author: Dola Pahari

DOI Link: https://doi.org/10.70798/Bijmrd/03080020

Abstract: प्रत्येकस्य व्यक्तेः जन्मनः एव बाह्यपर्यावरणं प्रति प्रतिक्रियायाः विशेषा प्रवृत्तिः भवति या मूलानुक्रियाप्रतिक्रियाप्रवृत्तिः इति उच्यते। मनोवैज्ञानिकैः कृतेन शोधकार्येण स्पष्टं जातं यत् सप्ततः (७) दशप्रतिशत (१०%) बालकानां मूलभूतप्रतिक्रियावृत्तिः दोषपूर्णा भवति। एतादृशेषु बालकेषु भोजनस्य, निद्रायाः, मलस्य च नियमितता न भवति। ते उच्छृंखलप्रवृत्तियुताः भवन्ति तथा च ते पर्यावरणस्य सरलवातारणेन अपि अत्यन्तं विक्षिप्ताः भवन्ति। माऊर्र, कोडोरेट तथा च केन इत्येतैः दीर्घकालं यावत् अध्ययनं कृत्त्वा ज्ञापितं यत् एतादृशे दोषपूर्णमूलप्रतिक्रियाप्रवृत्तियुक्ते बालके अननुकूलव्यवहारः अधिकशीघ्रतया विकसितः भवति। फिस (fish 1975) तथा मील्ह (Mealh 1978) इत्यनेन स्व-अध्ययनेन आधारेण एतत् ज्ञापितं यत् दोषपूर्णमूलप्रतिक्रियाप्रवृत्तिः यथार्थेन बालकेषु भविष्ये जायमानानाम् अननुकूलितव्यवहारस्य एकं मुख्यं सूचकं भवति।एकस्मिन् मनुष्ये बहवः कारकाः सन्ति येषां कारणात् तस्य अपराधव्यवहारः भवितुम् अर्हति। यस्य अकिशोरस्य बुद्धिः न्यूनः भवति, सः सम्यक् शिक्षां न प्राप्नोति अतः तस्य अपराधव्यवहारस्य सम्भावना अधिका भवति। अन्येषु कारकेषु आवेगपूर्णव्यवहारः, अनियंत्रिताक्रामकता, तृप्तिप्राप्त्यर्थं विलम्बः च भवितुं शक्नोति। मानसिकस्वास्थ्यमपि व्यक्तिगतकारकाणां भागः भवन्ति। समाजे तस्य व्यवहारस्य कृते व्यक्तेः मानसिकदशा अत्यन्तं महत्त्वपूर्णा भवति। एवं च एते कारकाः किशोरस्य हानिकारक विनाशकारी-अवैधकर्मसु संलग्नतायां योगदानं दातुं शक्नुवन्ति।

Keywords: बाह्यपर्यावरण, उच्छृंखलप्रवृत्ति,अननुकूलव्यवहारः, सूचकम्,अनियंत्रिताक्रामकता।

Page No: 148-153