Bhisma: The Story of Tragedy in Bravery

Author: Sutrisha Chakraborty Nanda

DOI Link: https://doi.org/10.70798/Bijmrd/03070032

Abstract: महाभारतं पृथिव्याः एकं बृहत्तममहाकाबम्। महाकाव्यमिदं न कस्य विशेषसम्प्रदाय़स्य धर्मग्रन्थरूपे न केवलं खातमपि तु इतिहासपुराणराजनीतिधर्मनीतिशास्त्राणाम् आकरग्रन्थस्वरुपेखातएकं महाकाव्यम्। इदं महाकाव्यम् सनातनधर्मस्य एकोत्कृष्टं महाकाव्यग्रन्थम्। अयं ग्रन्थः मानवाणां चिन्तायाः एकपूर्णप्रकाशः। महाकाव्यमिदं पञ्चमवेदः इति कथ्यते। महाभारतं महाकाव्यमध्ययेण मानवाणां समाजव्यक्तिवर्गाणां महाभारतं प्रति श्रद्धा जायते। वेदव्यासकृतमहाभारते चत्वारवेदस्य वर्णना उपलभ्यते, अपि च अस्मिन् महाकाव्ये उपनिषदः सारः प्राचीनइतिहासपुराणाणां वर्णना लिपिवद्धमस्ति। महाभारतम् एकमहाकाव्यं तथा धर्मग्रन्थम्। महाकाव्यमिदं ज्ञानविज्ञानस्य राजनीति-अधात्मशास्त्त्रस्य एकसंग्रहं मेलवन्धनम्। महाभारतस्य अतिव्याप्यकथा यथा आकर्षनीयं तथैव अकर्षनीयमस्य महाकाव्यस्य वहुवर्णितानि विचित्राणि चरित्राणि। युधिष्ठिरः अर्जुनः कर्णः भीमः दुर्योधनः शकुनिः च। एतानि चरित्रानि स्वगुणेन गुणान्वितानि। एषां चरित्राणां मध्ये अपरमनेकं चरित्रानि सन्ति येषां मननेन अनुधावनेन महाभारतमध्ययनं सानन्दपूर्णं भवति इति। एषां चरित्राणां मध्ये महामतिभीष्मचरित्रमन्यतममनवद्यम्। महर्षिवेदव्य़ास अस्मिन् महाग्रन्थे सम्पूर्ण धर्मशास्त्रस्य स्वत्वं लिखितवान्। महाभारतम् इतिहासज्ञानस्य भाण्डारस्वरुपम्। पुराकालस्य इतिहासं ज्ञानार्थं वयं महाभारतस्य स्मरणापन्नं भवामः। अतः महाभारतम् ऐतिहासिकधार्मिकराजनैतिकविषयसमन्वितम् ग्रन्थमेकम् गौरवपूर्णम्। महाभारते उल्लिखितं भीष्मपर्वन् अतीवमहत्वपूर्णं रूपे ख्यातम्। भीष्मपर्वणि अन्तर्गतं श्रीमद्भगवद्गीतायाः उद्देश्यं वर्णिता आसीत्। भगवान् श्रीकृष्णस्य अर्जुनं प्रति मुखनिसृतवाणी हि श्रीमद्भगवद्गीतारूपे समादृता। युद्धक्षेत्रे अर्जुनः परिजनं पश्य कदापि युद्धं न चिकीर्षति तु श्रीकृष्णस्य मुखनिसृतवाणीं श्रुत्वा सः युद्धं चकार इति। महभारते वर्णितइतिहासं महर्षिवेदव्यासेन स्वयं दृष्टम्।
महाकावमिदं अष्टादशपर्व्वाणि सम्मनित्वानि। अस्मिन् महाकाव्ये आनुमानिकएकशतसहस्रश्लोकाः सन्ति। इदाणीं क्षणे अस्य महाकाव्यस्य एकस्य महतः चरित्रदेवव्रतस्य (भीष्म) कथा विवदिषामि। महाभारते भीष्मः वृद्धः वयसि उपनीतः आसीत् तथापि युवावत् दृश्यते। सः तस्य पितुः विवाहं दापयति। पुत्रप्रतिमस्य विचित्रवीर्यस्य विवाहार्थं काशीराजस्य तिस्रकन्याः जहार। सुप्रसिद्धभरतवंशस्य सत्यवत्याः पुत्रयोः उत्तराधिकारार्थं स्वस्य उत्तराधिकारं सः न स्वीकृतवान्। सः केवलं पितामहभूत्वा स्वस्य जीवनं व्याप्यं केवलम् अपश्यत् केवलं असेवत परन्तु संसारजीवनात् मुक्तिं नीत्वा न अगच्छत्। इदृशः निर्मोहभीष्मचरित्रः साधुसन्यासिव्यक्तिवर्गानामपि दुर्लभः। द्रोणाचार्यः ब्राह्मणः ततस्वत्तेपि क्षत्रियस्य अस्त्रवृत्ति जग्राह। स हस्तिनापुरराजगृहे आचार्यस्य पदमलंकृतवान्। द्रोनाचार्यवत् कृपाचार्यवत् महामतिभीष्मः अपि एकः विषादजनक एकचरित्रः।

Keywords: दक्षराजकन्यावसोः कामधेनुलुम्विनीं, विषादजनकः नायकः, वशिष्टमुनेः, अष्टावसुभ्रातरः।

Page No: 295-300